मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८१, ऋक् ४

संहिता

उ॒त या॑सि सवित॒स्त्रीणि॑ रोच॒नोत सूर्य॑स्य र॒श्मिभि॒ः समु॑च्यसि ।
उ॒त रात्री॑मुभ॒यत॒ः परी॑यस उ॒त मि॒त्रो भ॑वसि देव॒ धर्म॑भिः ॥

पदपाठः

उ॒त । या॒सि॒ । स॒वि॒त॒रिति॑ । त्रीणि॑ । रो॒च॒ना । उ॒त । सूर्य॑स्य । र॒श्मिऽभिः॑ । सम् । उ॒च्य॒सि॒ ।
उ॒त । रात्री॑म् । उ॒भ॒यतः॑ । परि॑ । ई॒य॒से॒ । उ॒त । मि॒त्रः । भ॒व॒सि॒ । दे॒व॒ । धर्म॑ऽभिः ॥

सायणभाष्यम्

हेसवितर्देव उतापिच त्रीणिरोचना रोचमानान् द्युलोकान् यासि गच्छसि तिस्रोदिवःपृथिवीरित्युक्तं उतापिच सूर्यस्यरश्मिभिः स- मुच्यसि संगच्छसि उचसमवायइत्यस्येदंरूपं उदयात्पूर्वभावीसविता उदयास्तमयवर्तीसूर्यइति उतापिच रात्रीभुमयतउभयपार्श्वे परीयसे परिगच्छसि उतापिच हेदेव सवितस्त्वं धर्मभिर्जगद्धारकैः कर्मभिः मित्रोभवसिमित्राख्योदेवोभवसि अथवा प्रकाशादिप्रदानेनसखाभव- सि सर्वजगताम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४