मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८१, ऋक् ५

संहिता

उ॒तेशि॑षे प्रस॒वस्य॒ त्वमेक॒ इदु॒त पू॒षा भ॑वसि देव॒ याम॑भिः ।
उ॒तेदं विश्वं॒ भुव॑नं॒ वि रा॑जसि श्या॒वाश्व॑स्ते सवित॒ः स्तोम॑मानशे ॥

पदपाठः

उ॒त । ई॒शि॒षे॒ । प्र॒ऽस॒वस्य॑ । त्वम् । एकः॑ । इत् । उ॒त । पू॒षा । भ॒व॒सि॒ । दे॒व॒ । याम॑ऽभिः ।
उ॒त । इ॒दम् । विश्व॑म् । भुव॑नम् । वि । रा॒ज॒सि॒ । श्या॒वऽअ॑श्वः । ते॒ । स॒वि॒त॒रिति॑ । स्तोम॑म् । आ॒न॒शे॒ ॥

सायणभाष्यम्

हेसवितस्त्वं एकइत् एकएव प्रसवस्य सर्वकर्मानुज्ञाकरणस्य ईशिषे समर्थोभवसि ये लौकिकंगमनादिरूपं वैदिकमग्निहोत्रादिरूपंकर्म अनुतिष्ठन्ते तेषांसर्वेषां अनुज्ञातुमेकएवप्रभवसि उतापिच पूषा पोषकोभवसि हेदेव यामभिर्गमनैः उतापिचेदंविश्वंभुवनं भूतजातं विराजसि ईशिषेधारयितुं यस्मादेवंमहानुभावः तस्माद्धेसवितस्तेतुभ्यं श्यावाश्वऋषिः स्तोत्रमानशेव्याप्नोति करोतीत्येवमात्मानं परो- क्षतयानिर्दिशन्नाह ॥ ५ ॥

तत्सवितुरितिनवर्चंदशमंसूक्तं श्याबाश्वस्यार्षं अत्रेयमनुक्रमणिका-तत्सवितुर्नवगायत्रमाद्यानुष्टुबिति । प्रथमानुष्टुप् शिष्टागायत्र्यः सा- वित्रंत्वित्युक्तत्वात् सावित्रं अग्निष्टोमेवैश्वदेवशस्त्रस्याद्यस्तृचः प्रतिपत् अद्यानोदेवेत्यनुचरः सूत्रितंच-तत्सवितुर्वृणीमहेद्यानोदेवसवित- रिति वैश्वदेवस्यप्रतिपदनुचराबिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४