तत्स॑वि॒तुर्वृ॑णीमहे व॒यं दे॒वस्य॒ भोज॑नम् ।
श्रेष्ठं॑ सर्व॒धात॑मं॒ तुरं॒ भग॑स्य धीमहि ॥
तत् । स॒वि॒तुः । वृ॒णी॒म॒हे॒ । व॒यम् । दे॒वस्य॑ । भोज॑नम् ।
श्रेष्ठ॑म् । स॒र्व॒ऽधात॑मम् । तुर॑म् । भग॑स्य । धी॒म॒हि॒ ॥
तत्प्राप्यत्वेनप्रसिद्धं भोजनं भोग्यंधनं वयंस्तोतारोवृणीमहे प्रार्थयामः कस्यधनं सवितुः प्रेरकस्यदेवस्य स्वभूतं लब्ध्वाच श्रेष्ठं प्रशस्यं सर्वधातमं सर्वधातृतमं सर्वभोग्यप्रदमित्यर्थः तुरं शत्रूणांहिंसकं धनेनशत्रून्हन्तुंशक्यत्वात् तादृशंधनं भगस्य भजनीयस्य सवितुरनुग्रहात् धीमहि धारयाम उपभोगंकरवामेत्यर्थः अथवा धनंवृणीमहे अर्थित्वाच्च लभेमहीति ॥ १ ॥