मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८२, ऋक् ८

संहिता

य इ॒मे उ॒भे अह॑नी पु॒र एत्यप्र॑युच्छन् ।
स्वा॒धीर्दे॒वः स॑वि॒ता ॥

पदपाठः

यः । इ॒मे इति॑ । उ॒भे इति॑ । अह॑नी॒ इति॑ । पु॒रः । एति॑ । अप्र॑ऽयुच्छन् ।
सु॒ऽआ॒धीः । दे॒वः । स॒वि॒ता ॥

सायणभाष्यम्

यःसवितादेवः स्वाधीः शोभनाध्यानः सुकर्मावासन् इमे अहनी रात्र्यहनी तयोःपुरः पुरस्तादप्रयुच्छन् अप्रमाद्यन्नेति गच्छति तमावृणीमहइतिसंबन्धः ॥ ८ ॥ प्रायणीयेयइमाविश्वेतिसवितुर्याज्यासूत्रितंच-यइमाविश्वाजातानिसुत्रामाणंपृथिवींद्यामनेहसमिति । अश्वमेधेश्वमुत्सृज्यानुसवनंसा- वित्रीष्टिःकार्यातस्यामेषामाध्यन्दिनसवनेनुवाक्या सूत्रितंच-यइमाविश्वाजातान्यादेवोयातुसवितासुरत्नइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६