य इ॒मा विश्वा॑ जा॒तान्या॑श्रा॒वय॑ति॒ श्लोके॑न ।
प्र च॑ सु॒वाति॑ सवि॒ता ॥
यः । इ॒मा । विश्वा॑ । जा॒तानि॑ । आ॒ऽश्रा॒वय॑ति । श्लोके॑न ।
प्र । च॒ । सु॒वाति॑ । स॒वि॒ता ॥
योदेवइमा इमानि विश्वा सर्वाणि जातानि उत्पन्नान्प्राणिनः जंगमानित्यर्थः तान् श्लोकेन यशसा आश्रावयति सर्वेप्यस्यस्तुतिंश्रृण्व- न्तीत्यर्थः अथवा गर्जनशब्देन सर्वाणीमान्युत्पन्नानि आश्रावयति वृष्ट्युन्मुखः सन् किंच सविता प्रसुवातिचप्रेरयति तंवृणीमहइत्यर्थः ॥ ९ ॥
अच्छावदेतिदशर्चमेकादशंसूक्तं भौमस्यात्रेरार्षं अत्रेयमनुक्रमणिका-अच्छदशात्रिः पार्जन्यमुपाद्यास्तिस्रोजगत्यः उपान्त्यानुष्टुबिति यत्पर्जन्येत्येषानवम्यनुष्टुप् विवृक्षानित्याद्यास्तिस्रोजगत्यः शिष्टाःषट् त्रिष्टुभः पर्जन्योदेवता बृहदृग्विधानेशौनकः अच्छावदेतिसूक्तंतुवृ- ष्टिकामःप्रयोजयेत् ॥
निराहारःक्लिन्नवासाअचिरेणप्रवर्षति ॥ १ ॥
हुत्वायुतंवैतसीनांक्षीराक्तानां हुताशने ॥ महद्वर्षमवाप्नोतिसूक्तेना- च्छावदेनहि ॥ २ ॥
अनेनसूक्तेनप्रत्यृचंवादिशउपस्थेयाः सूत्रितंच-संस्थितायांसर्वादिशउपतिष्ठेत अच्छावदतवसंगीर्भिराभिरिचतसृभिः प्रत्यृचं सूक्तेनवेति ।