मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८३, ऋक् २

संहिता

वि वृ॒क्षान्ह॑न्त्यु॒त ह॑न्ति र॒क्षसो॒ विश्वं॑ बिभाय॒ भुव॑नं म॒हाव॑धात् ।
उ॒ताना॑गा ईषते॒ वृष्ण्या॑वतो॒ यत्प॒र्जन्य॑ः स्त॒नय॒न्हन्ति॑ दु॒ष्कृतः॑ ॥

पदपाठः

वि । वृ॒क्षान् । ह॒न्ति॒ । उ॒त । ह॒न्ति॒ । र॒क्षसः॑ । विश्व॑म् । बि॒भा॒य॒ । भुव॑नम् । म॒हाऽव॑धात् ।
उ॒त । अना॑गाः । ई॒ष॒ते॒ । वृष्ण्य॑ऽवतः । यत् । प॒र्जन्यः॑ । स्त॒नय॑न् । हन्ति॑ । दुः॒ऽकृतः॑ ॥

सायणभाष्यम्

अयंमंत्रोनिरुक्तेस्पष्टव्याख्यातत्वात्तदेवात्रलिख्यते पर्जन्यःविहन्ति वृक्षान्विहन्तिच रक्षांसि सर्वाणिचास्माद्भूतानिबिभ्यति महाव- धान्महान्ह्यस्यवधोप्यनपराधोभीतः पलायते वर्षकर्मवतोयत्पर्जन्यस्तनयन्हन्ति दुष्कृतः पापकृतइति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७