मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८३, ऋक् ३

संहिता

र॒थीव॒ कश॒याश्वाँ॑ अभिक्षि॒पन्ना॒विर्दू॒तान्कृ॑णुते व॒र्ष्याँ॒३॒॑ अह॑ ।
दू॒रात्सिं॒हस्य॑ स्त॒नथा॒ उदी॑रते॒ यत्प॒र्जन्य॑ः कृणु॒ते व॒र्ष्यं१॒॑ नभः॑ ॥

पदपाठः

र॒थीऽइ॑व । कश॑या । अश्वा॑न् । अ॒भि॒ऽक्षि॒पन् । आ॒विः । दू॒तान् । कृ॒णु॒ते॒ । व॒र्ष्या॑न् । अह॑ ।
दू॒रात् । सिं॒हस्य॑ । स्त॒नथाः॑ । उत् । ई॒र॒ते॒ । यत् । प॒र्जन्यः॑ । कृ॒णु॒ते । व॒र्ष्य॑म् । नभः॑ ॥

सायणभाष्यम्

रथीव रथस्वामीव सयथा कशयाशानभिक्षिपन् दूतान्भटानाविष्करोतितद्वदसौपर्जन्योपि कशयाश्वान्मेघान् अभिक्षिपन् अभिप्रेरयन् वर्ष्यान् वर्षकान् दूतान् दूतवद्वृष्टिप्रेरकान् मेघान् मरुतोवा आविष्कृणुते प्रकटयति अहइतिपूरणः एवंसति सिंहस्य सहतेर्हिसतेर्वाशब्द- कर्मणःसिंहशब्दः अवर्षणेनाभिभवितुः शब्दयितुर्वामेघस्य स्तनथाः गर्जनशब्दाः दूरादुदीरते उद्गछन्ति कदा यद्यदापर्जन्योनभोन्तरिक्षं वर्ष्यं व्र्षोपेतं कृणुते करोति तदा ॥ ३ ॥ प्रवातावान्तीतिचतुर्थीपर्जन्यस्यचरोर्याज्या सूत्रितंच-प्रवातावान्तिपतयन्तिविद्युतइत्यग्र्याधेयप्रभृतीनितितत्पाठस्तु ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७