मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८३, ऋक् ५

संहिता

यस्य॑ व्र॒ते पृ॑थि॒वी नन्न॑मीति॒ यस्य॑ व्र॒ते श॒फव॒ज्जर्भु॑रीति ।
यस्य॑ व्र॒त ओष॑धीर्वि॒श्वरू॑पा॒ः स नः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥

पदपाठः

यस्य॑ । व्र॒ते । पृ॒थि॒वी । नम्न॑मीति । यस्य॑ । व्र॒ते । श॒फऽव॑त् । जर्भु॑रीति ।
यस्य॑ । व्र॒ते । ओष॑धीः । वि॒श्वऽरू॑पाः । सः । नः॒ । प॒र्ज॒न्य॒ । महि॑ । शर्म॑ । य॒च्छ॒ ॥

सायणभाष्यम्

यस्यपर्जन्यस्य व्रते कर्मणि पृथिवीनन्नमीति अत्यर्थंनमति सर्वेषामधोभवति यस्यव्रते शफवत् पादोपेतंगवादिकं जर्भुरीति भ्रियते पूर्यते गच्छतीतिवा यस्यव्रते कर्मण्योषधीरोषध्योविश्वरूपानानारूपाभवन्ति हेपर्जन्य समहांस्त्वं नोस्मभ्यं महिशर्म महत्सुखं यच्छप्रय- च्छ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७