मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८३, ऋक् ६

संहिता

दि॒वो नो॑ वृ॒ष्टिं म॑रुतो ररीध्वं॒ प्र पि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धारा॑ः ।
अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुनेह्य॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॑ ॥

पदपाठः

दि॒वः । नः॒ । वृ॒ष्टिम् । म॒रु॒तः॒ । र॒री॒ध्व॒म् । प्र । पि॒न्व॒त॒ । वृष्णः॑ । अश्व॑स्य । धाराः॑ ।
अ॒र्वाङ् । ए॒तेन॑ । स्त॒न॒यि॒त्नुना॑ । आ । इ॒हि॒ । अ॒पः । नि॒ऽसि॒ञ्चन् । असु॑रः । पि॒ता । नः॒ ॥

सायणभाष्यम्

हेमरुतोयूयं दिवोन्तरिक्षसकाशात् नोस्मदर्थं वृष्टिं ररीध्वं दत्त वृष्णोवर्षकस्याश्वस्य व्यापकस्यमेघस्य संबन्धिन्योधाराउदकधाराः प्रपिन्वत प्रक्षरत हेपर्जन्य त्वमेतेन स्तनयित्नुना गर्जतामेघेन सहार्वागस्मदभिमुखमेहि आगच्छ किंकुर्वन् अपोंभांसिनिषिंचन् सदेवोसु- रः उदकानांनिरसितापिसन् नोस्माकं पितापालकश्च ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८