मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८३, ऋक् ८

संहिता

म॒हान्तं॒ कोश॒मुद॑चा॒ नि षि॑ञ्च॒ स्यन्द॑न्तां कु॒ल्या विषि॑ताः पु॒रस्ता॑त् ।
घृ॒तेन॒ द्यावा॑पृथि॒वी व्यु॑न्धि सुप्रपा॒णं भ॑वत्व॒घ्न्याभ्य॑ः ॥

पदपाठः

म॒हान्त॑म् । कोश॑म् । उत् । अ॒च॒ । नि । सि॒ञ्च॒ । स्यन्द॑न्ताम् । कु॒ल्याः । विऽसि॑ताः । पु॒रस्ता॑त् ।
घृ॒तेन॑ । द्यावा॑पृथि॒वी इति॑ । वि । उ॒न्धि॒ । सु॒ऽप्र॒पा॒नम् । भ॒व॒तु॒ । अ॒घ्न्याभ्यः॑ ॥

सायणभाष्यम्

हेपर्जन्य त्वं महान्तं प्रवृद्धं कोशं कोशस्थानीयंमेघं उत्कृष्टमुदच उद्गच्छ उद्गमयवा तथाकृत्वा निषिंच नीचैःक्षारय कुल्यानद्योविषि- ताविष्यूताःसत्यः स्यन्दन्तां प्रवहन्तु पुरस्तात्पूर्वाभिमुखं प्रायेण नद्यः प्राच्यः स्यन्दन्ते घृतेनोदकेन द्यावापृथिवी दिवंचप्रुथिवींच व्युन्धि क्लेदयात्यधिकं अघ्र्याभ्योगोभ्यः सुप्रपानं सुष्ठु प्रकर्षेण पातव्यमुदकं भवतु ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८