मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८३, ऋक् ९

संहिता

यत्प॑र्जन्य॒ कनि॑क्रदत्स्त॒नय॒न्हंसि॑ दु॒ष्कृतः॑ ।
प्रती॒दं विश्वं॑ मोदते॒ यत्किं च॑ पृथि॒व्यामधि॑ ॥

पदपाठः

यत् । प॒र्ज॒न्य॒ । कनि॑क्रदत् । स्त॒नय॑न् । हंसि॑ । दुः॒ऽकृतः॑ ।
प्रति॑ । इ॒दम् । विश्व॑म् । मो॒द॒ते॒ । यत् । किम् । च॒ । पृ॒थि॒व्याम् । अधि॑ ॥

सायणभाष्यम्

हेपर्जन्य यद्यदा त्वं कनिक्रददत्यर्थंशब्दयन् स्तनयन् दुष्कृतः पापकृतोमेघान्हंसि विदारयसि तदानीमिदं विश्वं जग्त्प्रतिमोदते विश्वं- विशेष्यते यत्किंच पृथिव्यामधिभूम्यामधिष्ठितं यच्चराचरात्मकं तदिदंविश्वं मोदते हृष्यति वृष्टेः सर्वजगत्प्रीतिकारणत्वंप्रसिद्धम् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८