मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८४, ऋक् १

संहिता

बळि॒त्था पर्व॑तानां खि॒द्रं बि॑भर्षि पृथिवि ।
प्र या भूमिं॑ प्रवत्वति म॒ह्ना जि॒नोषि॑ महिनि ॥

पदपाठः

बट् । इ॒त्था । पर्व॑तानाम् । खि॒द्रम् । बि॒भ॒र्षि॒ । पृ॒थि॒वि॒ ।
प्र । या । भूमि॑म् । प्र॒व॒त्व॒ति॒ । म॒ह्ना । जि॒नोषि॑ । म॒हि॒नि॒ ॥

सायणभाष्यम्

द्विरूपापृथिवीचैषा प्रत्यक्षादेवतापिच । मध्यस्थानादेवतोक्ता सात्र संबोध्यवर्ण्यते ॥ हेपृथिवि विप्रथनवति मध्यस्थानदेवतेत्वं इत्था- इत्थं अत्र अमुत्रान्तरिक्षेवा बट् सत्यं पर्वतानां मेघानांवाखिद्रं खेदनं भेदनं बिभर्षि धारयसि हेमहिनि महति हेप्रवत्वति प्रकर्षवति प्रव- णोदकवतिवायात्वं भूमिं प्रत्यक्षांपृथिवीं मह्ना महत्वेन महतोदकेनवा प्रजिनोषि प्रकर्षेणप्रीणयसि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९