मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८४, ऋक् २

संहिता

स्तोमा॑सस्त्वा विचारिणि॒ प्रति॑ ष्टोभन्त्य॒क्तुभि॑ः ।
प्र या वाजं॒ न हेष॑न्तं पे॒रुमस्य॑स्यर्जुनि ॥

पदपाठः

स्तोमा॑सः । त्वा॒ । वि॒ऽचा॒रि॒णि॒ । प्रति॑ । स्तो॒भ॒न्ति॒ । अ॒क्तुऽभिः॑ ।
प्र । या । वाज॑म् । न । हेष॑न्तम् । पे॒रुम् । अस्य॑सि । अ॒र्जु॒नि॒ ॥

सायणभाष्यम्

हेविचारिणि विविधंचरणशीले पृथिविदेवि त्वां स्तोमासः स्तोतारः अक्तुभिर्गमनशीलैः स्तोत्रैः प्रतिष्टोभन्ति अभिष्टुवन्ति किंच यात्वं हेषंतं शब्दयन्तं वाजंन अश्वमिव उहत्तं पेरुं पूरकं मेघं प्रास्यसि प्रक्षिपसि हेअर्जुनि शुभ्रवर्णे गमनशीलेवा ॥ २ ॥ देवानांहविःषुदृह्ळाचिदितिपृथिव्यायाज्या एषैवभूमिः स्तोमेनिष्केवल्येसूक्त्मुखीया सूत्रंतु पूर्वमेवोदाहृतम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९