मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८४, ऋक् ३

संहिता

दृ॒ळ्हा चि॒द्या वन॒स्पती॑न्क्ष्म॒या दर्ध॒र्ष्योज॑सा ।
यत्ते॑ अ॒भ्रस्य॑ वि॒द्युतो॑ दि॒वो वर्ष॑न्ति वृ॒ष्टयः॑ ॥

पदपाठः

दृ॒ळ्हा । चि॒त् । या । वन॒स्पती॑न् । क्ष्म॒या । दर्ध॑र्षि । ओज॑सा ।
यत् । ते॒ । अ॒भ्रस्य॑ । वि॒ऽद्युतः॑ । दि॒वः । वर्ष॑न्ति । वृ॒ष्टयः॑ ॥

सायणभाष्यम्

हेपृथिवि यात्वं दृह्ळाचित् सुपांसुलुगितितृतीयायाआकारः दृढया क्ष्मया भूम्या सहवनस्पतीन् वृक्षान् ओजसा बलेन दर्धर्षि धारयसि अथवा दृह्ळेतिविधेयविशेषणं वनस्पतीन् दृह्ळान् कृत्वा धारयसीत्यर्थः यत् अस्यास्ते तवसंबंधिनोवृष्टयोवर्षकामेघाः विद्युतोविद्योत- मानात् अभ्रस्य पंचम्यर्थेषष्ठी अभ्रादपांहर्त्तुः दिवोन्तरिक्षादादित्याद्वावर्षन्ति अथवा यद्यस्यास्ते तवाभ्रस्यमेघस्य वृष्टयः उदकसंघाताः विद्युतोविद्योतमानायादिवः सकाशाद्वर्षन्ति पतन्ति ॥ ३ ॥

प्रसंम्राजइत्यष्टर्चंत्रयोदशंसूक्तं आत्रेयं त्रैष्टुभं वारुणं अनुक्रम्यतेच-प्रसंम्राजेष्टौवारुणमिति । विनियोगोलैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९