मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८५, ऋक् १

संहिता

प्र स॒म्राजे॑ बृ॒हद॑र्चा गभी॒रं ब्रह्म॑ प्रि॒यं वरु॑णाय श्रु॒ताय॑ ।
वि यो ज॒घान॑ शमि॒तेव॒ चर्मो॑प॒स्तिरे॑ पृथि॒वीं सूर्या॑य ॥

पदपाठः

प्र । स॒म्ऽराजे॑ । बृ॒हत् । अ॒र्च॒ । ग॒भी॒रम् । ब्रह्म॑ । प्रि॒यम् । वरु॑णाय । श्रु॒ताय॑ ।
वि । यः । ज॒घान॑ । श॒मि॒ताऽइ॑व । चर्म॑ । उ॒प॒ऽस्तिरे॑ । पृ॒थि॒वीम् । सूर्या॑य ॥

सायणभाष्यम्

अत्रिः स्वात्मानंसंबोध्य ब्रवीति हेअत्रे त्वं सम्राजे सम्यग्राजमानायईश्वराय श्रुताय सर्वत्रश्रूयमाणाय वरुणाय उपद्रवस्यनिवारकाय जनानामावरकाय एतन्नामकायदेवाय बृहत्प्रभूतं गभीरं दुरवगाहं बह्वर्थोपेतं प्रियं प्रियभूतं ब्रह्म स्तोत्ररूपंकर्म प्रार्च प्रार्चय प्रोच्चारये- त्यर्थः योवरुणः शमितेवचर्म शमितापशुविशसनकर्ता यथोपस्तरणाय चर्म हन्ति तद्वत्पृथिवीं विस्तीर्णमन्तरिक्षं तृतीयस्यांपृथिव्यामिति श्रुतेरन्तरिक्षस्यापिप्रुथिवीशब्दवाच्यर्त्वं सूर्याय सूर्यस्य उपस्तिरे आस्तरणाय विजघान विस्तारयामास विसृतंहि व्यवहारयोग्यं भवति तस्माद्भ्यवहारायान्तरिक्षं विस्तारितवान् उरुंहिराजावरुणश्चकारेतिह्युक्तम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०