मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८५, ऋक् २

संहिता

वने॑षु॒ व्य१॒॑न्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया॑सु ।
हृ॒त्सु क्रतुं॒ वरु॑णो अ॒प्स्व१॒॑ग्निं दि॒वि सूर्य॑मदधा॒त्सोम॒मद्रौ॑ ॥

पदपाठः

वने॑षु । वि । अ॒न्तरि॑क्षम् । त॒ता॒न॒ । वाज॑म् । अर्व॑त्ऽसु । पयः॑ । उ॒स्रिया॑सु ।
हृ॒त्ऽसु । क्रतु॑म् । वरु॑णः । अ॒प्ऽसु । अ॒ग्निम् । दि॒वि । सूर्य॑म् । अ॒द॒धा॒त् । सोम॑म् । अद्रौ॑ ॥

सायणभाष्यम्

अयंवरुणोवनेषुवृक्षाग्रेषु अन्तरिक्षंविततान विस्तारितवान् तथावाजसनेयकं वनेषुहीदंएषु वृक्षाग्रेष्वन्तरिक्षंविततं तस्मादाहवनेषु व्यन्तरिक्षंततानेति वाजं बलमर्वत्सु अश्वेषु ततान पयःक्षीरमुस्रियासु गोषु उस्रियेति गोनाम उस्राविणोस्यांभोगाइतितद्भ्युत्पत्तिः हृत्सु हृदयेषु क्रतुं कर्मसंकल्पं यद्धि मनसाध्यायति तत्कर्मणाकरोति अप्सूदकेषुअग्निं नैद्युतं और्वंवा सर्वत्र विततानेतिसंबन्धःकिंच दिवि द्युलो- के सूर्यमदधात् स्थापितवान्त्सोमंचाद्रौपर्वते अदधात् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०