मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८५, ऋक् ३

संहिता

नी॒चीन॑बारं॒ वरु॑ण॒ः कव॑न्धं॒ प्र स॑सर्ज॒ रोद॑सी अ॒न्तरि॑क्षम् ।
तेन॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ यवं॒ न वृ॒ष्टिर्व्यु॑नत्ति॒ भूम॑ ॥

पदपाठः

नी॒चीन॑ऽबारम् । वरु॑णः । कव॑न्धम् । प्र । स॒स॒र्ज॒ । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् ।
तेन॑ । विश्व॑स्य । भुव॑नस्य । राजा॑ । यव॑म् । न । वृ॒ष्टिः । वि । उ॒न॒त्ति॒ । भूम॑ ॥

सायणभाष्यम्

नीचीनबारं अधोमुखंबिलं प्रससर्ज कृतवान् कं कवंधं कवनमुदकं तद्धीयतेअत्रेतिकवन्धोमेघः तंतथाकरोत् अथवा कवन्धमुदकं तदुद- कं नीचीनबारं नीचीननिर्गमनबिलंचकारमेघंविदार्योदकमधोमुखंचकारेत्यर्थः किंप्रतीतीत्युच्यते रोदसी द्यावापृथिव्यौ अन्तरिक्षंच प्रति लोकत्रयहितायेत्यर्थः तेनोदकेन विश्वस्यसर्वस्यभुवनस्य भूतजातस्य राजा स्वामीवरुणोभूम भूमिं व्युनत्तिक्लेदयतिवृष्टिः सेक्ता पुमान् यवंन यवमिवयवान् यथाप्ररोहायसर्वत्रप्रसारयतितद्वत् भूमिं सर्वत्रोनत्ति अथवावृष्टिर्वरुणइतिसंबन्धः वर्षकःपर्जन्यइत्यर्थः अस्मिन्पक्षे- यवंपुरुषइवेतिपुरुषशब्दोध्याहार्यः अत्रनीचीनबारंवरुणःकबन्धमित्यादिनिरुक्तंद्रष्टव्यम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०