मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८५, ऋक् ५

संहिता

इ॒मामू॒ ष्वा॑सु॒रस्य॑ श्रु॒तस्य॑ म॒हीं मा॒यां वरु॑णस्य॒ प्र वो॑चम् ।
माने॑नेव तस्थि॒वाँ अ॒न्तरि॑क्षे॒ वि यो म॒मे पृ॑थि॒वीं सूर्ये॑ण ॥

पदपाठः

इ॒माम् । ऊं॒ इति॑ । सु । आ॒सु॒रस्य॑ । श्रु॒तस्य॑ । म॒हीम् । मा॒याम् । वरु॑णस्य । प्र । वो॒च॒म् ।
माने॑नऽइव । त॒स्थि॒ऽवान् । अ॒न्तरि॑क्षे । वि । यः । म॒मे । पृ॒थि॒वीम् । सूर्ये॑ण ॥

सायणभाष्यम्

आसुरस्य असुरसंबन्धिनः असुराणामस्यचवध्यघातकभावः संबन्धः असुरहन्तुरित्यर्थः अथवा असुरोमेघः प्राणदानात्तत्संबन्धिनः श्रुतस्य विश्रुतस्य महीं महतीं इमां मायां प्रज्ञां प्रवोचं प्रब्रवीमि कैषामायेतिसोच्यते योवरुणोन्तरिक्षेतस्थिवान् तिष्ठन् मानेनेव दंडेनेव सूर्येण पृथिवीमन्तरिक्षं विममे परिच्छिनत्ति तस्यैषामाया ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०