मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८५, ऋक् ६

संहिता

इ॒मामू॒ नु क॒वित॑मस्य मा॒यां म॒हीं दे॒वस्य॒ नकि॒रा द॑धर्ष ।
एकं॒ यदु॒द्ना न पृ॒णन्त्येनी॑रासि॒ञ्चन्ती॑र॒वन॑यः समु॒द्रम् ॥

पदपाठः

इ॒माम् । ऊं॒ इति॑ । नु । क॒विऽत॑मस्य । मा॒याम् । म॒हीम् । दे॒वस्य॑ । नकिः॑ । आ । द॒ध॒र्ष॒ ।
एक॑म् । यत् । उ॒द्ना । न । पृ॒णन्ति॑ । एनीः॑ । आ॒ऽसि॒ञ्चन्तीः॑ । अ॒वन॑यः । स॒मु॒द्रम् ॥

सायणभाष्यम्

कवितमस्य प्रकृष्टप्रज्ञस्य देवस्य द्योतमानस्य स्तुत्यस्य वा वरुणस्येमांसर्वप्रसिद्धां महीं महतीं मायां प्रज्ञां नकिर्नैवआदधर्ष नहिन- स्तिकश्चिदपि ऊन्वितिपूरणौ यद्यस्मादेकं समुद्रं उद्गा उदकेन नपृणन्ति नपूरयन्ति काः एनीः एन्यः शुभ्राः गमनशीलावा आसिंचन्ती उदकमासिंचयंत्यः अवनयोनद्यः बह्व्योनद्यः सर्वदोदकेनपूरयंत्योपि नैकमपिसमुद्रंपूरयन्तीति इदंवरुणस्य महत्कर्मेति अत्रान्तरिक्ष- विस्तारादिसमुद्रापूरणपर्यन्तंकर्म परमेश्वरस्यैवोचितं नवरुणस्येतिनवाच्यं तस्यवरुणादिरूपावस्थानात् एषब्रह्मेत्याद्रिश्रतिः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१