मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८६, ऋक् १

संहिता

इन्द्रा॑ग्नी॒ यमव॑थ उ॒भा वाजे॑षु॒ मर्त्य॑म् ।
दृ॒ळ्हा चि॒त्स प्र भे॑दति द्यु॒म्ना वाणी॑रिव त्रि॒तः ॥

पदपाठः

इन्द्रा॑ग्नी॒ इति॑ । यम् । अव॑थः । उ॒भा । वाजे॑षु । मर्त्य॑म् ।
दृ॒ळ्हा । चि॒त् । सः । प्र । भे॒द॒ति॒ । द्यु॒म्ना । वाणीः॑ऽइव । त्रि॒तः ॥

सायणभाष्यम्

हेइन्द्राग्नी उभा उभौ परस्परावियुक्तौ युवां यंमर्त्यमवथः रक्षथः वाजेषु संग्रामेषु समर्त्योदृह्ळाचित् दृढान्यपिद्युम्ना द्योतमानानि धनानिशत्रुसंबन्धीनि प्रभेदति प्रकर्षेणभिनत्ति त्रितऋषिर्वाणीरिव प्रतिवादिवाक्यानीव अथवा त्रिषुस्थानेषु वर्तमानोग्निः शत्रूणां वाक्यानीव ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२