मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८७, ऋक् ५

संहिता

स्व॒नो न वोऽम॑वान्रेजय॒द्वृषा॑ त्वे॒षो य॒यिस्त॑वि॒ष ए॑व॒याम॑रुत् ।
येना॒ सह॑न्त ऋ॒ञ्जत॒ स्वरो॑चिष॒ः स्थार॑श्मानो हिर॒ण्यया॑ः स्वायु॒धास॑ इ॒ष्मिणः॑ ॥

पदपाठः

स्व॒नः । न । वः॒ । अम॑ऽवान् । रे॒ज॒य॒त् । वृषा॑ । त्वे॒षः । य॒यिः । त॒वि॒षः । ए॒व॒याम॑रुत् ।
येन॑ । सह॑न्तः । ऋ॒ञ्जत॑ । स्वऽरो॑चिषः । स्थाःऽर॑श्मानः । हि॒र॒ण्ययाः॑ । सु॒ऽआ॒यु॒धासः॑ । इ॒ष्मिणः॑ ॥

सायणभाष्यम्

हेमरुतोवोयुष्माकं स्वनोवेगजनितःशब्दोनरेजयत् नकंपयतु एवयामरुतंमां सुपांसुलुगितिद्वितीयायालुक् स्वनोविशेष्यते अमवान् बलवान् वृषा वर्षितावृष्टेः त्वेषोदीप्तः रयिर्गन्ता तविषः प्रवृद्धः येनस्वनेनसहन्तः शत्रूनभिभवन्तोयूयं ऋंजत प्रसाधयथ लडर्थेलोट् कीदृ- शायूयं स्वरोचिषः स्वायत्तरश्मयः स्थारश्मानः स्थिरश्मयोहिरण्ययाः हिरण्याभरणाः स्वायुधासः स्वायत्तायुधाः इष्मिणोन्नवन्तोगमन- वन्तोवा ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३