मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८७, ऋक् ७

संहिता

ते रु॒द्रास॒ः सुम॑खा अ॒ग्नयो॑ यथा तुविद्यु॒म्ना अ॑वन्त्वेव॒याम॑रुत् ।
दी॒र्घं पृ॒थु प॑प्रथे॒ सद्म॒ पार्थि॑वं॒ येषा॒मज्मे॒ष्वा म॒हः शर्धां॒स्यद्भु॑तैनसाम् ॥

पदपाठः

ते । रु॒द्रासः॑ । सुऽम॑खाः । अ॒ग्नयः॑ । य॒था॒ । तु॒वि॒ऽद्यु॒म्नाः । अ॒व॒न्तु॒ । ए॒व॒याम॑रुत् ।
दी॒र्घम् । पृ॒थु । प॒प्र॒थे॒ । सद्म॑ । पार्थि॑वम् । येषा॑म् । अज्मे॑षु । आ । म॒हः । शर्धां॑सि । अद्भु॑तऽएनसाम् ॥

सायणभाष्यम्

तेमरुतोरुद्रासोरुद्रपुत्राः सुमखाः शोभनयज्ञाः अग्नयोयथाग्नयइव तुविद्युम्नाः प्रभूतदीप्तयः अथवाग्निसदृशाः तुविद्युम्नाः प्रभूतधनाः अवन्तु रक्षन्तु एवयामरुत् एतन्नामानमृषिंमां पार्थिवं पृथिव्यत्रान्तरिक्षं तत्संबन्धि दीर्घं आयतं पृथु विस्तीर्णं सद्म सदनं पप्रथे मरुद्भिः प्रथितमभूत् अद्भुतैनसां अपापानांयेषां अज्मेषु गमनेषु महोमहान्ति शर्धांसिच बलानि आगच्छन्तीतिशेषः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४