मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १, ऋक् १

संहिता

त्वं ह्य॑ग्ने प्रथ॒मो म॒नोता॒स्या धि॒यो अभ॑वो दस्म॒ होता॑ ।
त्वं सीं॑ वृषन्नकृणोर्दु॒ष्टरी॑तु॒ सहो॒ विश्व॑स्मै॒ सह॑से॒ सह॑ध्यै ॥

पदपाठः

त्वम् । हि । अ॒ग्ने॒ । प्र॒थ॒मः । म॒नोता॑ । अ॒स्याः । धि॒यः । अभ॑वः । द॒स्म॒ । होता॑ ।
त्वम् । सी॒म् । वृ॒ष॒न् । अ॒कृ॒णोः॒ । दु॒स्तरी॑तु । सहः॑ । विश्व॑स्मै । सह॑से । सह॑ध्यै ॥

सायणभाष्यम्

हेअग्ने प्रथमोदेवानांमध्येप्रथमः प्रतमः प्रकृष्टतमः पूर्वभावीवात्वं मनोताहि देवानांमनोयत्रऊतंसंबद्धंभवतितादृशोभवसि हिशब्दो- ग्निः सर्वमनोता अग्नौमनोताःसंगच्छन्तेइत्यादिब्रांह्मणप्रसिद्धद्योतनार्थः हेदस्म दर्शनीय अस्याधियः अस्यकर्मणोहोता देवानामाह्वाता अभवः भवसि हेवृषन् कामानांवर्षितः त्वंसीं सर्वतःदुष्टरीतु दुर्हिंस्यमहिंस्यं सहोबलं अकृणोः अकरोः किमर्थं विश्वस्मैसहसे सर्वस्यापिब- लवतःशत्रोः सहध्यै अभिभवनाय ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५