मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १, ऋक् ३

संहिता

वृ॒तेव॒ यन्तं॑ ब॒हुभि॑र्वस॒व्यै॒३॒॑स्त्वे र॒यिं जा॑गृ॒वांसो॒ अनु॑ ग्मन् ।
रुश॑न्तम॒ग्निं द॑र्श॒तं बृ॒हन्तं॑ व॒पाव॑न्तं वि॒श्वहा॑ दीदि॒वांस॑म् ॥

पदपाठः

वृ॒ताऽइ॑व । यन्त॑म् । ब॒हुऽभिः॑ । व॒स॒व्यैः॑ । त्वे इति॑ । र॒यिम् । जा॒गृ॒ऽवांसः॑ । अनु॑ । ग्म॒न् ।
रुश॑न्तम् । अ॒ग्निम् । द॒र्श॒तम् । बृ॒हन्त॑म् । व॒पाऽव॑न्तम् । वि॒श्वहा॑ । दी॒दि॒ऽवांस॑म् ॥

सायणभाष्यम्

वृतेव मार्गेणेवेति संप्रत्यर्थेलोकद्वयमध्यगतेनमार्गेण बहुभिरनेकैर्वसव्यैः वसुभिः स्वार्थिकस्तद्धितप्रत्ययः यजमानानांनिवासयोग्यैर्वा- सार्धं यन्तं गच्छान्तंत्वां अनुग्मन् अनुगच्छन्ति संभजन्तेयजमानाः कीदृशास्ते त्वे त्वयिदेवे रयिं धनं जागृवांसः प्रयच्छ्न्तइत्यर्थः कीदृशं- त्वामित्युच्यते रुशन्तं दीप्तवर्णं अग्निं अंगनादिगुणविशिष्ठं दर्शतं दर्शनीयं बृहन्तं महान्तं वपावन्तं विश्वहा सर्वेषुकालेषु दीदिवांसंदीप्यमानं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५