मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १, ऋक् ४

संहिता

प॒दं दे॒वस्य॒ नम॑सा॒ व्यन्त॑ः श्रव॒स्यव॒ः श्रव॑ आप॒न्नमृ॑क्तम् ।
नामा॑नि चिद्दधिरे य॒ज्ञिया॑नि भ॒द्रायां॑ ते रणयन्त॒ संदृ॑ष्टौ ॥

पदपाठः

प॒दम् । दे॒वस्य॑ । नम॑सा । व्यन्तः॑ । श्र॒व॒स्यवः॑ । श्रवः॑ । आ॒प॒न् । अमृ॑क्तम् ।
नामा॑नि । चि॒त् । द॒धि॒रे॒ । य॒ज्ञिया॑नि । भ॒द्राया॑म् । ते॒ । र॒ण॒य॒न्त॒ । सम्ऽदृ॑ष्टौ ॥

सायणभाष्यम्

देवस्य द्योतमानस्यग्नेः पदं आहवनीयस्थानं नमसा हविषा स्तोत्रेणवा व्यन्तोगछन्तः श्रवस्यवोन्नमिच्छन्तः पूर्वेयजमानाः श्रवः सर्व- त्रश्रूयमाणमन्नं अमृक्तं अन्यैरपरिबाध्यं आपन् अप्नुवन्ति हेअग्नेतेतव भद्रायां स्तुत्यायां सन्दृष्टौ निमित्तायां रणयन्त रमयन्तित्वां किंच यज्ञियानि यज्ञयोग्यानि नामानि नमनीयानि वैश्वनरोजातवेदाइत्यादीनि दधिरे धारयन्ति अथवानमनसाधनानिस्तोत्राणिदधिरे चिदितिपूरणः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५