मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १, ऋक् ५

संहिता

त्वां व॑र्धन्ति क्षि॒तयः॑ पृथि॒व्यां त्वां राय॑ उ॒भया॑सो॒ जना॑नाम् ।
त्वं त्रा॒ता त॑रणे॒ चेत्यो॑ भूः पि॒ता मा॒ता सद॒मिन्मानु॑षाणाम् ॥

पदपाठः

त्वाम् । व॒र्ध॒न्ति॒ । क्षि॒तयः॑ । पृ॒थि॒व्याम् । त्वाम् । रायः॑ । उ॒भया॑सः । जना॑नाम् ।
त्वम् । त्रा॒ता । त॒र॒णे॒ । चेत्यः॑ । भूः॒ । पि॒ता । मा॒ता । सद॑म् । इत् । मानु॑षाणाम् ॥

सायणभाष्यम्

हेअग्ने त्वां क्षितयोमनुष्याऋत्विजः पृथिव्यां वेदिलक्षणायां वर्धन्ति वर्धयन्ति उभयासोउभयविधानिंपश्वपशुरूपाणि जनानां यजमानानांसंबन्धीनि रायोधनानि ऋत्विजोध्वर्य्वादयः त्वांत्वामुद्दिश्यवर्धन्ति अथवा उभयविधानिधनानि गवादीनि जनानां जायमा- नानां पुत्रादीनामर्थाय प्राप्तुंत्वांवर्धन्ति हेतरणे दुःखात्तारकाग्ने त्वंचेत्योज्ञातव्यःस्तुत्यःसन् त्राता रक्षिता भूर्भवसि किंच मानुषाणां मनु- ष्याणांस्तोतॄणामस्माकं सदमित्सर्वदा पितामाताच माता पितृस्थानीयोभर्भवसि ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५