मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १, ऋक् ६

संहिता

स॒प॒र्येण्य॒ः स प्रि॒यो वि॒क्ष्व१॒॑ग्निर्होता॑ म॒न्द्रो नि ष॑सादा॒ यजी॑यान् ।
तं त्वा॑ व॒यं दम॒ आ दी॑दि॒वांस॒मुप॑ ज्ञु॒बाधो॒ नम॑सा सदेम ॥

पदपाठः

स॒प॒र्येण्यः॑ । सः । प्रि॒यः । वि॒क्षु । अ॒ग्निः । होता॑ । म॒न्द्रः । नि । सि॒सा॒द॒ । यजी॑यान् ।
तम् । त्वा॒ । व॒यम् । दमे॑ । आ । दी॒दि॒ऽवांस॑म् । उप॑ । ज्ञु॒ऽबाधः॑ । नम॑सा । स॒दे॒म॒ ॥

सायणभाष्यम्

सोग्निः सपर्येण्यः पूज्यः प्रियः कामानांपूरकः विक्षुप्रजासु होता होमनिष्पादकः मन्द्रोमदनीयः यजीयानतिशयेनेतरदेवानांयष्टायज- नीयोवा एवं महानुभावोग्निः निषसाद निषण्णोभूत् अथप्रत्यक्षकृतः तंत्वा तादृशंत्वां वयं यजमानादमेगृहे दीदिवांसं दीप्यमानं ज्ञुबाधः जानुनीबाधयन्तः अवनतजानवः प्रणताःसन्तोनमसास्तोत्रेणोपासदेम आसादयेम अथवा उपसीदेमेत्येवमाशास्ते ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६