तं त्वा॑ व॒यं सु॒ध्यो॒३॒॑ नव्य॑मग्ने सुम्ना॒यव॑ ईमहे देव॒यन्त॑ः ।
त्वं विशो॑ अनयो॒ दीद्या॑नो दि॒वो अ॑ग्ने बृह॒ता रो॑च॒नेन॑ ॥
त्वम् । त्वा॒ । व॒यम् । सु॒ऽध्यः॑ । नव्य॑म् । अ॒ग्ने॒ । सु॒म्न॒ऽयवः॑ । ई॒म॒हे॒ । दे॒व॒ऽयन्तः॑ ।
त्वम् । विशः॑ । अ॒न॒यः॒ । दीद्या॑नः । दि॒वः । अ॒ग्ने॒ । बृ॒ह॒ता । रो॒च॒नेन॑ ॥
हेअग्ने तं तादृशं महानुभावं नव्यं स्तुत्यं त्वा त्वां सुध्यः शोभनबुद्धयः सुम्नायवः सुखमिच्छन्तोदेवयन्तोदेवंत्वामिच्छन्तोवयं ईमहे याचामहे स्तुमइत्यर्थः हेअग्ने त्वं दीद्यानोदीप्यमानःसन् केन बृहता महता रोचनेन रोचमानेन तेजसा दीद्यानाः विशः प्रजाः स्तोतॄन- स्मान् दिवः स्वर्गं अनयः अगमयः रोचनेनादित्येन दिवंअगमयइतिवासंबन्धः आदित्यमार्गेणेत्यर्थः ॥ ७ ॥