मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १, ऋक् ८

संहिता

वि॒शां क॒विं वि॒श्पतिं॒ शश्व॑तीनां नि॒तोश॑नं वृष॒भं च॑र्षणी॒नाम् ।
प्रेती॑षणिमि॒षय॑न्तं पाव॒कं राज॑न्तम॒ग्निं य॑ज॒तं र॑यी॒णाम् ॥

पदपाठः

वि॒शाम् । क॒विम् । वि॒श्पति॑म् । शश्व॑तीनाम् । नि॒ऽतोश॑नम् । वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् ।
प्रेति॑ऽइषणिम् । इ॒षय॑न्तम् । पा॒व॒कम् । राज॑न्तम् । अ॒ग्निम् । य॒ज॒तम् । र॒यी॒णाम् ॥

सायणभाष्यम्

शश्वतीनां नित्यानां विशां ऋत्विग्यजमानलक्षणानां विश्पतिं स्वामिनं कविं क्रान्तदर्शिनं नितोशनं शत्रूणांहिंसकं वृषभं कामानांव- र्षकं चर्षणीनां स्तोतॄणां मनुष्याणां प्रेतीषणिं प्राप्तगमनं इषयन्तं अन्नंकुर्वन्तं पावकं शॊधकं राजन्तं दीप्यमानं दीपयन्तंवा रयीणांलाभाय यजतं यष्टव्यं अग्निंस्तुमइतिशेषः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६