मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १, ऋक् ९

संहिता

सो अ॑ग्न ईजे शश॒मे च॒ मर्तो॒ यस्त॒ आन॑ट् स॒मिधा॑ ह॒व्यदा॑तिम् ।
य आहु॑तिं॒ परि॒ वेदा॒ नमो॑भि॒र्विश्वेत्स वा॒मा द॑धते॒ त्वोतः॑ ॥

पदपाठः

सः । अ॒ग्ने॒ । ई॒जे॒ । श॒श॒मे । च॒ । मर्तः॑ । यः । ते॒ । आन॑ट् । स॒म्ऽइधा॑ । ह॒व्यऽदा॑तिम् ।
यः । आऽहु॑तिम् । परि॑ । वे॒द॒ । नमः॑ऽभिः । विश्वा॑ । इत् । सः । वा॒मा । द॒ध॒ते॒ । त्वाऽऊ॑तः ॥

सायणभाष्यम्

हेअग्ने त्वां समर्तः सयजमानईजे यजते शशमेच स्तौति शशमानइतिस्तुतिकर्मसुपाठात् इदमपिस्तुतिकर्म योयजमानस्तेतव समिधा- सह हव्यदातिं हविषांदानं आनट् करोति किंच योयजमानोनमोभिःस्तुभिराहुतिमाज्यादिलक्षणां परिवेद परितोवेत्ति ददातीत्यर्थः स- यजमानस्त्वोतः त्वयारक्षितःसन् विश्वेत् सर्वाणि वामा वमनीयानि धनानि दधतेधारयति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६