मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १, ऋक् ११

संहिता

आ यस्त॒तन्थ॒ रोद॑सी॒ वि भा॒सा श्रवो॑भिश्च श्रव॒स्य१॒॑स्तरु॑त्रः ।
बृ॒हद्भि॒र्वाजै॒ः स्थवि॑रेभिर॒स्मे रे॒वद्भि॑रग्ने वित॒रं वि भा॑हि ॥

पदपाठः

आ । यः । त॒तन्थ॑ । रोद॑सी॒ इति॑ । वि । भा॒सा । श्रवः॑ऽभिः । च॒ । श्र॒व॒स्यः॑ । तरु॑त्रः ।
बृ॒हत्ऽभिः॑ । वाजैः॑ । स्थवि॑रेभिः । अ॒स्मे इति॑ । रे॒वत्ऽभिः॑ । अ॒ग्ने॒ । वि॒ऽत॒रम् । वि । भा॒हि॒ ॥

सायणभाष्यम्

हेअग्ने यस्त्वं रोदसी द्यवापृथिव्यौ भासा दीप्त्या व्यततंथ व्यतनोः किंच तरुत्रः तारकस्त्वं श्रवोभिः स्तुतिभिः श्रवस्यश्चभवसि हेतादृ- शाग्ने बृहद्भिर्महद्भिर्वाजैरन्नैः स्थविरेभिः स्थविरैः स्थूलैः रेवद्भिःरयिमद्भिः अस्मदर्थं वितरं विशिष्टतरं विभाहि विशेषेणदीप्यस्व ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६