मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १, ऋक् १२

संहिता

नृ॒वद्व॑सो॒ सद॒मिद्धे॑ह्य॒स्मे भूरि॑ तो॒काय॒ तन॑याय प॒श्वः ।
पू॒र्वीरिषो॑ बृह॒तीरा॒रेअ॑घा अ॒स्मे भ॒द्रा सौ॑श्रव॒सानि॑ सन्तु ॥

पदपाठः

नृ॒ऽवत् । व॒सो॒ इति॑ । सद॑म् । इत् । धे॒हि॒ । अ॒स्मे इति॑ । भूरि॑ । तो॒काय॑ । तन॑याय । प॒श्वः ।
पू॒र्वीः । इषः॑ । बृ॒ह॒तीः । आ॒रेऽअ॑घाः । अ॒स्मे इति॑ । भ॒द्रा । सौ॒श्र॒व॒सानि॑ । स॒न्तु॒ ॥

सायणभाष्यम्

हेवसो वासक धनवन्वाग्ने नृवत् मनुष्यैरुपेतंधनं सदमित् सर्वदास्मेअस्मासु धेहि स्थापय किंच भूरि प्रभूतान् पश्वः पशूंश्च धेहि किमर्थं तोकायास्मत्पुत्राय तनयाय तत्पुत्राय किंच पूर्वीः पूरयित्र्यः कामानांबह्व्योवा महतीर्महत्यः आरेअघाः आरे दूरे अघानि यासु तास्तादृश्यइषः उक्तलक्षणान्यन्नानि भद्रा भद्राणि सौश्रवसानि सुश्रवस्त्वानि अस्मे अस्मासु सन्तुभवन्तु ॥ १२ ॥ पुरूण्यग्रइतित्रयोदशी उखासंभरणीयेष्टौ अग्नेःक्षत्रवतोनुवाक्या सूत्रितंच-पुरूण्यग्नेपुरुधात्वायासचित्रचित्रंचितयन्तमस्मेइति तत्पाठस्तु ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६