मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १, ऋक् १३

संहिता

पु॒रूण्य॑ग्ने पुरु॒धा त्वा॒या वसू॑नि राजन्व॒सुता॑ ते अश्याम् ।
पु॒रूणि॒ हि त्वे पु॑रुवार॒ सन्त्यग्ने॒ वसु॑ विध॒ते राज॑नि॒ त्वे ॥

पदपाठः

पु॒रूणि॑ । अ॒ग्ने॒ । पु॒रु॒धा । त्वा॒ऽया । वसू॑नि । रा॒ज॒न् । व॒सुता॑ । ते॒ । अ॒श्या॒म् ।
पु॒रूणि॑ । हि । त्वे इति॑ । पु॒रु॒ऽवा॒र॒ । सन्ति॑ । अग्ने॑ । वसु॑ । वि॒ध॒ते । राज॑नि । त्वे इति॑ ॥

सायणभाष्यम्

हेअग्ने राजन् ते तव पुरूणि बहूनि पुरुधा गवाश्वादिरूपेणबहुप्रकाराणि वसूनि धनानि वसुता वसुतायै वसुमत्त्वाय त्वायाहि त्वयाहेतुभूतेन अश्यां व्याप्नुयां भुंजीयवा अत्रभरतस्वामी वसुतेत्येतत्पदंसप्तम्यन्तचकार भदृभास्करमिश्रोपि एकपदंसंबुध्यन्तंचकार हेपु- रुवार बहुभिर्वरणीयाग्ने राजनि राजमाने त्वे त्वयि पुरूणि बहूनि वसु वसूनि विधते परिचरते मह्यं दातव्यानिसन्ति ॥ १३ ॥

वेदार्थस्यप्रकाशेनतमोहार्दंनिवारयन् ॥ पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेणसायणाचार्येणविरचितेमाधवीयेवेदार्थप्रकाशे- ऋक्संहिताभाष्येचतुर्थाष्टकेचतुर्थोध्यायः समाप्तः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६