मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २, ऋक् १

संहिता

त्वं हि क्षैत॑व॒द्यशोऽग्ने॑ मि॒त्रो न पत्य॑से ।
त्वं वि॑चर्षणे॒ श्रवो॒ वसो॑ पु॒ष्टिं न पु॑ष्यसि ॥

पदपाठः

त्वम् । हि । क्षैत॑ऽवत् । यशः॑ । अग्ने॑ । मि॒त्रः । न । पत्य॑से ।
त्वम् । वि॒ऽच॒र्ष॒णे॒ । श्रवः॑ । वसो॒ इति॑ । पु॒ष्टिम् । न । पु॒ष्य॒सि॒ ॥

सायणभाष्यम्

यस्यनिःश्वसितंवेदायोवेदेभ्योखिलंजगत् ॥ निर्ममेतमहंवन्देविद्यातीर्थमहेश्वरम् ॥ १ ॥

॥ अथपञ्चमाध्यायआरभ्यते ॥

षष्ठमण्डलस्यषडनुवाकात्मकस्य प्रथमेनुवाकेपञ्चदशसूक्तानि तत्रत्वंहीत्येकादशर्चंद्वितीयंसूक्तम् भरद्वाजस्यार्षमाग्ने- यम् अन्त्याषट्पञ्चाशदक्षराशक्वरी आदितोदशानुष्टुभः अनुक्रम्यतेहि-त्वंह्येकादशानुष्टुभंशक्वर्यंतमिति प्रातरनुवाके आग्नेयेक्रतौ आनुष्टुभे- छन्दसीदंसूक्तम् उत्तमावर्जंविनियुक्तम् सूत्र्यतेहि- त्वंहिक्षैतवदग्नायोहोताजनिष्टेति आश्विनशस्त्रेचैतच्छंसनीयं प्रातरनुवाकन्यायेनेत्यति- दिष्टत्वात् अङ्गिरसांद्विरात्रेद्वितीयेहनीदमेवसूक्तमाज्यशस्त्रं सूत्रितंच-त्वंहिक्षैतवदितिचाज्यमिति ।

हेअग्ने त्वंहि त्वंखलुक्षैतवत् क्षितिःक्षयोपचयस्तत्संबन्धिक्षैतं शुष्कंकाष्ठं तद्युक्तंयशोन्नंहविर्लक्षणंपत्यसे अभिपतसिगच्छसि तत्रदृष्टान्तः मित्रोन अहरभिमानीदेवोमित्रः सइव यद्वा यशइतिगृहनाम क्षैतवत् क्षैतं निवासकंहविर्लक्षणमन्नंतद्युक्तंयजमानगृहं मित्रभूतःपुरुषइवा- भिपतसि यद्वा पत्यतिरैश्वर्यकर्मा ईदृशमन्नं पत्यसे ईशिषे अतःकारणात् हेविश्वचर्षणेविशेषेणसर्वस्यद्रष्टः वसो वासकाग्नेत्वं श्रवःश्रवणी- यमन्नं यजमानगृहस्थंन अयंनशब्दश्चार्थे अन्नकार्यभूतांपुष्टिंच पुष्यसि वर्द्धयसि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः