मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २, ऋक् २

संहिता

त्वां हि ष्मा॑ चर्ष॒णयो॑ य॒ज्ञेभि॑र्गी॒र्भिरीळ॑ते ।
त्वां वा॒जी या॑त्यवृ॒को र॑ज॒स्तूर्वि॒श्वच॑र्षणिः ॥

पदपाठः

त्वाम् । हि । स्म॒ । च॒र्ष॒णयः॑ । य॒ज्ञेभिः॑ । गीः॒ऽभिः । ईळ॑ते ।
त्वाम् । वा॒जी । या॒ति॒ । अ॒वृ॒कः । र॒जः॒ऽतूः । वि॒श्वऽच॑र्षणिः ॥

सायणभाष्यम्

हेअग्ने त्वांहिस्म त्वामेवखलु चर्षणयोमनुष्यायज्ञेभिर्यज्ञसाधनैर्हविर्भिर्गीर्भिः स्तुतिभिरीळतेस्तुवन्ति अपिच वाजी वाजोगमनं तद्वान् सूर्यस्त्वां याति गच्छति प्रविशतीत्यर्थः तथा चश्रूयते-अग्निंवावादित्यःसायंप्रविशतितस्मादग्निर्दूरान्नक्तंदशइति वाजिशब्दश्चसूर्यवाचक- त्वेनक्वचिछ्रूयते आग्निर्वायुःसूर्यः तेवैवाजिनइति वायुःसप्तिःआदित्योवाजीतिच कीदृशोवाजीअवृकोहिंसकरहितः रजस्तूः उदकमत्ररजउ- च्यते तस्यवृष्टिलक्षणस्यप्रेरयिता यद्वा रजसां लोकानां तरिता गन्ता विश्वचर्षणीः सर्वस्यद्रष्टा ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः