मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २, ऋक् ३

संहिता

स॒जोष॑स्त्वा दि॒वो नरो॑ य॒ज्ञस्य॑ के॒तुमि॑न्धते ।
यद्ध॒ स्य मानु॑षो॒ जनः॑ सुम्ना॒युर्जु॒ह्वे अ॑ध्व॒रे ॥

पदपाठः

स॒ऽजोषः॑ । त्वा॒ । दि॒वः । नरः॑ । य॒ज्ञस्य॑ । के॒तुम् । इ॒न्ध॒ते॒ ।
यत् । ह॒ । स्य । मानु॑षः । जनः॑ । सु॒म्न॒ऽयुः । जु॒ह्वे । अ॒ध्व॒रे ॥

सायणभाष्यम्

हेअग्ने सजोषः सहोषसः सहप्रीयमाणादिवःस्तुतेर्नरोनेतारऋत्विजः यज्ञस्यकेतुं प्रदापकं त्वा त्वां इन्धते समिद्धंकुर्वन्ति कदेतिचेदु- च्यते यद्ध यदाखलु स्यः समानुषोमनोरपत्य भूतोजनोजातोयजमानोहोतावा सुम्नायुः सुम्नंसुखमात्मनइच्छन् अध्वरे हिंसाप्रत्यवायर- हितेयज्ञे जुह्वेत्वामाह्वयति तदेत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः