मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २, ऋक् ४

संहिता

ऋध॒द्यस्ते॑ सु॒दान॑वे धि॒या मर्त॑ः श॒शम॑ते ।
ऊ॒ती ष बृ॑ह॒तो दि॒वो द्वि॒षो अंहो॒ न त॑रति ॥

पदपाठः

ऋध॑त् । यः । ते॒ । सु॒ऽदान॑वे । धि॒या । मर्तः॑ । श॒शम॑ते ।
ऊ॒ती । सः । बृ॒ह॒तः । दि॒वः । द्वि॒षः । अंहः॑ । न । त॒र॒ति॒ ॥

सायणभाष्यम्

ऋधत् सयजमानः ऋध्नुयात् हेअग्ने सुदानवे शोभनदानाय तुभ्यं षष्ठ्यर्थे चतुर्थी तवसंबन्धिन्या धिया कर्मणा योमर्तोमरणधर्मा- यजमानः शशमते शाम्यति यद्वा शमतिःस्तुतिकर्मा त्वदर्थंकर्मणायुक्तःसन् स्तौतिसयजमानः बृहतोमहतः दिवोदीप्तस्यतव संबन्धिन्या ऊती ऊत्या रक्षया द्विषोद्वेष्टृन् अंहोन आहननशीलंपापमिवतरत्यतिक्रामति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः