मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २, ऋक् ६

संहिता

त्वे॒षस्ते॑ धू॒म ऋ॑ण्वति दि॒वि षञ्छु॒क्र आत॑तः ।
सूरो॒ न हि द्यु॒ता त्वं कृ॒पा पा॑वक॒ रोच॑से ॥

पदपाठः

त्वे॒षः । ते॒ । धू॒मः । ऋ॒ण्व॒ति॒ । दि॒वि । सन् । शु॒क्रः । आऽत॑तः ।
सूरः॑ । न । हि । द्यु॒ता । त्वम् । कृ॒पा । पा॒व॒क॒ । रोच॑से ॥

सायणभाष्यम्

हेअग्ने त्वेषःदीप्तस्य तेतव शुक्रः निर्मलः शुभ्रवर्णोवाधूमः दिव्यन्तरिक्षे आततोविस्तीर्णःसन् ऋण्वति मेघात्मनापरिणतोगच्छति अपिच हेपावक शोधकाग्ने सूरोन सूर्यइव कृपाअभिमुखीकरनसमर्थयास्तुत्या स्तूयमानस्त्वं द्युतादीप्त्या रोचसेहि दीप्यसेखलु ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः