मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २, ऋक् ८

संहिता

क्रत्वा॒ हि द्रोणे॑ अ॒ज्यसेऽग्ने॑ वा॒जी न कृत्व्य॑ः ।
परि॑ज्मेव स्व॒धा गयोऽत्यो॒ न ह्वा॒र्यः शिशु॑ः ॥

पदपाठः

क्रत्वा॑ । हि । द्रोणे॑ । अ॒ज्यसे॑ । अग्ने॑ । वा॒जी । न । कृत्व्यः॑ ।
परि॑ज्माऽइव । स्व॒धा । गयः॑ । अत्यः॑ । न । ह्वा॒र्यः । शिशुः॑ ॥

सायणभाष्यम्

हेअग्ने क्रत्वा कर्मणामन्थनरूपेण द्रोणे द्रुमेकाष्ठे अरण्यांविद्यमानस्त्वं अज्यसेहि यज्यसेखलु तथा वाजीन वेजनवानश्वइव कृत्व्यः कृ- त्वीतिकर्मनाम हविर्वहनादीनांकर्मणांकर्ता सयथा पुरुषंवहति तद्वद्धविर्वहनमग्नेरश्वसादृश्यं तथा परिज्मेव परितः सर्वत्रगन्तावायुरिव दावानलादिरूपेणसर्वत्रगन्तात्वं स्वधा अन्ननामैतत् अन्नं गयः गृहंच भवसि उभयोर्दातेत्यर्थः अपिच शिशुर्जातमात्रोबालोपि त्वमत्योन सततगामीजात्यश्वइव ह्वार्यः कुटिलमितस्ततोगन्तासि ह्वकौटिल्ये इत्यस्यैतद्रपम् ॥ ८ ॥ कारीर्यामग्नेर्धामच्छदोवैकल्पिक्यनुवाक्यात्वंत्येति सूत्रितंच-त्वन्त्याचिदच्युताधामन्तेविश्वमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः