मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २, ऋक् १०

संहिता

वेषि॒ ह्य॑ध्वरीय॒तामग्ने॒ होता॒ दमे॑ वि॒शाम् ।
स॒मृधो॑ विश्पते कृणु जु॒षस्व॑ ह॒व्यम॑ङ्गिरः ॥

पदपाठः

वेषि॑ । हि । अ॒ध्व॒रि॒ऽय॒ताम् । अग्ने॑ । होता॑ । दमे॑ । वि॒शाम् ।
स॒म्ऽऋधः॑ । वि॒श्प॒ते॒ । कृ॒णु॒ । जु॒षस्व॑ । ह॒व्यम् । अ॒ङ्गि॒रः॒ ॥

सायणभाष्यम्

हेअग्ने अध्वरीयतां अध्वरंयज्ञमात्मनइचच्छतां विशांयजमानानां दमे गृहे त्वंहोता देवानामहवातासन् वेषिहि स्तुतिंहवींषिवा यतः कामयसे अतःकारणात् विश्पते विशांपालकाग्ने समृधः समृद्धान् अस्मान्यजमानान् कृणु कुरु कृत्वाच हेअङ्गिरः अङ्गनादिगुणयुक्तः अ- ङ्गाररूपवाग्ने हव्यं अस्मदीयंहविः जषस्व सेवस्व ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः