मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३, ऋक् २

संहिता

ई॒जे य॒ज्ञेभि॑ः शश॒मे शमी॑भिरृ॒धद्वा॑राया॒ग्नये॑ ददाश ।
ए॒वा च॒न तं य॒शसा॒मजु॑ष्टि॒र्नांहो॒ मर्तं॑ नशते॒ न प्रदृ॑प्तिः ॥

पदपाठः

ई॒जे । य॒ज्ञेभिः॑ । श॒श॒मे । शमी॑भिः । ऋ॒धत्ऽवा॑राय । अ॒ग्नये॑ । द॒दा॒श॒ ।
ए॒व । च॒न । तम् । य॒शसा॑म् । अजु॑ष्टिः । न । अंहः॑ । मर्त॑म् । न॒श॒ते॒ । न । प्रऽदृ॑प्तिः ॥

सायणभाष्यम्

योयजमानः ऋधद्वाराय ऋधत् समृद्धं वारं वरणीयं धनं यस्य तादृशायाग्नये ददृशे हवींषिददाति सयजमानः यज्ञेभिः सर्वैर्यज्ञैः ईजे इष्टवान् भवति तथाशमीभिः कर्मभिः कृछ्रचान्द्रायणादिभिः शशमे शान्तश्चभवति आग्नेयेनयोगेनसर्वफलंलभतइत्यर्थः अपिच तंयज- मानं यशसां यशस्विनां पुत्राणां अजुष्टिरप्राप्तिर्नैव नशते नैव्प्राप्नोति पुत्रवान्भवत्येवेत्यर्थः तथा मर्तं मनुष्यंतं अंहः पापं न नशते तथा प्रदृप्तिः अनर्थहेतुः प्रदर्पश्च तंनप्राप्नोति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः