मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३, ऋक् ४

संहिता

ति॒ग्मं चि॒देम॒ महि॒ वर्पो॑ अस्य॒ भस॒दश्वो॒ न य॑मसा॒न आ॒सा ।
वि॒जेह॑मानः पर॒शुर्न जि॒ह्वां द्र॒विर्न द्रा॑वयति॒ दारु॒ धक्ष॑त् ॥

पदपाठः

ति॒ग्मम् । चि॒त् । एम॑ । महि॑ । वर्पः॑ । अ॒स्य॒ । भस॑त् । अश्वः॑ । न । य॒म॒सा॒नः । आ॒सा ।
वि॒ऽजेह॑मानः । प॒र॒शुः । न । जि॒ह्वाम् । द्र॒विः । न । द्र॒व॒य॒ति॒ । दारु॑ । धक्ष॑त् ॥

सायणभाष्यम्

अस्याग्नेः एम गमनभूतोमार्गः तिग्मं तीक्ष्णं स्प्रष्टुमशक्यत्वात् अस्यचवर्पोरूपं महि महत् प्रभूतं भसत् दीप्यते भसभर्त्सनदीप्त्योरिति- धातुः कीदृशोग्निः अश्वोन अश्वइव आसा आस्येन यमसानः तृणादिकंनियच्छन् तथापरशुर्न यथापरशुःस्वकीयांधारांकाष्ठेप्रक्षिपति तथा- स्वकीयांजिह्वांज्वालांविजेहमानःतरुगुल्मादौप्रक्षिपन् तथा दारु काष्ठं धक्षत् दहन् द्रविर्न द्रविर्द्रावयिता स्वर्णकारः सयथा स्वर्णादिकं- द्रावयति तथा सर्वंवनंद्रावयति मूर्तभूतंसर्वंभस्मसात्करोतीत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः