मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३, ऋक् ५

संहिता

स इदस्ते॑व॒ प्रति॑ धादसि॒ष्यञ्छिशी॑त॒ तेजोऽय॑सो॒ न धारा॑म् ।
चि॒त्रध्र॑जतिरर॒तिर्यो अ॒क्तोर्वेर्न द्रु॒षद्वा॑ रघु॒पत्म॑जंहाः ॥

पदपाठः

सः । इत् । अस्ता॑ऽइव । प्रति॑ । धा॒त् । अ॒सि॒ष्यन् । शिशी॑त । तेजः॑ । अय॑सः । न । धारा॑म् ।
चि॒त्रऽध्र॑जतिः । अ॒र॒तिः । यः । अ॒क्तोः । वेः । न । द्रु॒ऽसद्वा॑ । र॒घु॒पत्म॑ऽजंहाः ॥

सायणभाष्यम्

सइत् सखल्वग्निः अस्तेव बाणादेःक्षेप्तेव प्रतिधात् स्व्कीयज्वालांप्रतिधत्ते यथाधन्वी लक्ष्याभिमुख्येनबाणंसन्धत्ते तथा ज्वालांसन्धत्त- इत्यर्थः प्रतिधायच असिष्यन् ज्वालांप्रक्षेप्स्यन् तेजःस्वकीयं शिशीत निश्यति तीक्ष्णीकरोति अत्रदृष्टांतः अयसोनधारां यथा अयोमय- स्यपरश्वादेर्धारां प्रक्षेप्तुकामस्तीक्ष्णीकरोतितद्वत् तीक्ष्णीकृत्यच चित्रध्रजतिः विचित्रगतिः अक्तोरात्रेः अरतिरभिगन्ता वेर्न पक्षीव द्रुषद्वा वृक्षेषुसीद्न् रघुपत्मजंहाः लघुपतनसमर्थपादः एवंभूतःसन् योग्निर्वर्तते सइतिपूर्वत्रान्वयः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः