मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३, ऋक् ६

संहिता

स ईं॑ रे॒भो न प्रति॑ वस्त उ॒स्राः शो॒चिषा॑ रारपीति मि॒त्रम॑हाः ।
नक्तं॒ य ई॑मरु॒षो यो दिवा॒ नॄनम॑र्त्यो अरु॒षो यो दिवा॒ नॄन् ॥

पदपाठः

सः । ई॒म् । रे॒भः । न । प्रति॑ । व॒स्ते॒ । उ॒स्राः । शो॒चिषा॑ । र॒र॒पी॒ति॒ । मि॒त्रऽम॑हाः ।
नक्त॑म् । यः । ई॒म् । अ॒रु॒षः । यः । दिवा॑ । नॄन् । अम॑र्त्यः । अ॒रु॒षः । यः । दिवा॑ । नॄन् ॥

सायणभाष्यम्

सईं सोयमग्निः रेभोन स्तुत्यः सूर्यइव उस्राः दीप्ताः ज्वालाः प्रतिवस्ते आच्छादयति तथा मित्रमहाः सर्वेषामनुकूलप्रकाशःसन् शोचि- षा तेजसा रारपीति भृशंशब्दंकरोति यईमयग्निः नक्तं रात्रौ अरुषः आरोचमानःसन् दिवा अहनीव नॄन् मनुष्यान् स्वस्वकार्येप्रेरयति पुनर्यच्छब्दःपूरकः तथाऽमर्त्योऽमरणधर्मा अरुषआरोचमानोरोषरहितोवा योऽग्निः दिवा द्योतमानेनतेजसा नॄन्नेतॄन् आत्मीयान्त्रश्मीन् प्रेरयति सइतिपूर्वत्रसंबन्धः यद्वा नक्तं रात्रौ योयमग्निररुषः आरोचमानः यश्चमरणरहितोग्निः सः दिवा अह्नि नॄन्नेतॄन् देवान् हविर्भिः संयोजयति योदिवान् नितिपनरुक्तिरादरार्था ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः