मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३, ऋक् ७

संहिता

दि॒वो न यस्य॑ विध॒तो नवी॑नो॒द्वृषा॑ रु॒क्ष ओष॑धीषु नूनोत् ।
घृणा॒ न यो ध्रज॑सा॒ पत्म॑ना॒ यन्ना रोद॑सी॒ वसु॑ना॒ दं सु॒पत्नी॑ ॥

पदपाठः

दि॒वः । न । यस्य॑ । वि॒ध॒तः । नवी॑नोत् । वृषा॑ । रु॒क्षः । ओष॑धीषु । नू॒नो॒त् ।
घृणा॑ । न । यः । ध्रज॑सा । पत्म॑ना । यन् । आ । रोद॑सी॒ इति॑ । वसु॑ना । दम् । सु॒पत्नी॒ इति॑ सु॒ऽपत्नी॑ ॥

सायणभाष्यम्

दिवोन दीप्तस्यसूर्यस्येव विधतोविधातुः रश्मीकुर्वतोयस्याग्नेर्नवीनोत् भृशंशब्दोभूत् एतदेवव्याचष्टे वृषा कामानांवर्षिता रुक्षः दीप्तः सोग्निरोषधीषु दह्यमानासु नूनोत् भृशंशब्दमकरोत् यश्चघृणान सञ्चलनशीलेनदीप्तेनेव ध्रजसा गमनशीलेनतेजसा पत्मना इतस्ततउत्प- तता यन् गच्छन् वर्तते सोग्निः दं अस्मच्छत्रून्दमयन् सुपत्नी शोभनपतिके रोदसी द्यावापृ थिव्यौवसुना धनेन आपूरयति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः