मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४, ऋक् २

संहिता

स नो॑ वि॒भावा॑ च॒क्षणि॒र्न वस्तो॑र॒ग्निर्व॒न्दारु॒ वेद्य॒श्चनो॑ धात् ।
वि॒श्वायु॒र्यो अ॒मृतो॒ मर्त्ये॑षूष॒र्भुद्भूदति॑थिर्जा॒तवे॑दाः ॥

पदपाठः

सः । नः॒ । वि॒भाऽवा॑ । च॒क्षणिः॑ । न । वस्तोः॑ । अ॒ग्निः । व॒न्दारु॑ । वेद्यः॑ । चनः॑ । धा॒त् ।
वि॒श्वऽआ॑युः । यः । अ॒मृतः॑ । मर्त्ये॑षु । उ॒षः॒ऽभुत् । भूत् । अति॑थिः । जा॒तऽवे॑दाः ॥

सायणभाष्यम्

वस्तोरहनि चक्षणिर्न प्रकाशकःसूर्यइव विभावा विशेषेणदीप्यमानः वेद्यः सर्वैर्ज्ञातव्योलम्भनीयोवा सोग्निः नोस्मभ्यं वन्दारु वन्द- नीयं स्तुत्यं चनः अन्नं धात् दधातु प्रयच्छत्वित्यर्थः विश्वायुः सर्वान्नः सर्वेषांजीवनहेतुर्वा अमृतोमरणरहितः अतिथिर्हविर्वहनाय सतत- गामी जातवेदाः जातानांवेदिता जातधनोवा एवंभूतोयोग्निः मर्त्येषु मनुष्येषु यजमानेषुउषर्भुद्भूदुषःकालेअग्निहोमार्थंप्रबुद्धोभवति सइतिपूर्वत्रान्वयः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः