मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४, ऋक् ३

संहिता

द्यावो॒ न यस्य॑ प॒नय॒न्त्यभ्वं॒ भासां॑सि वस्ते॒ सूर्यो॒ न शु॒क्रः ।
वि य इ॒नोत्य॒जरः॑ पाव॒कोऽश्न॑स्य चिच्छिश्नथत्पू॒र्व्याणि॑ ॥

पदपाठः

द्यावः॑ । न । यस्य॑ । प॒नय॑न्ति । अभ्व॑म् । भासां॑सि । व॒स्ते॒ । सूर्यः॑ । न । शु॒क्रः ।
वि । यः । इ॒नोति॑ । अ॒जरः॑ । पा॒व॒कः । अश्न॑स्य । चि॒त् । शि॒श्न॒थ॒त् । पू॒र्व्याणि॑ ॥

सायणभाष्यम्

नेतिसंप्रत्यर्थे उक्तंच अस्त्युपमार्थस्यसंप्रत्यर्थेप्रयोगइति द्यावः स्तोतारः सम्प्रतीदानीं यस्याग्नेरभ्वंमहत्कर्म पनयन्ति स्तुवन्ति सोग्निः सूर्योन् सूर्यइव शुक्रः शुक्रवर्णःसन् भासांसि तेजांसि वस्ते आच्छादयति यश्चाजरोजरारहितः पावकः सर्वस्यशोधकोग्निः विइनोति भासा सर्वंव्याप्नोति सोयं अश्नस्यचित् व्यापनशीलस्यापिराक्षसादेः पूर्व्याणि चिरन्तनानि पुराणि शिश्नयत् हिनस्ति श्नथक्रथहिंसायांइतिधातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः