मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४, ऋक् ४

संहिता

व॒द्मा हि सू॑नो॒ अस्य॑द्म॒सद्वा॑ च॒क्रे अ॒ग्निर्ज॒नुषाज्मान्न॑म् ।
स त्वं न॑ ऊर्जसन॒ ऊर्जं॑ धा॒ राजे॑व जेरवृ॒के क्षे॑ष्य॒न्तः ॥

पदपाठः

व॒द्मा । हि । सू॒नो॒ इति॑ । असि॑ । अ॒द्म॒ऽसद्वा॑ । च॒क्रे । अ॒ग्निः । ज॒नुषा॑ । अज्म॑ । अन्न॑म् ।
सः । त्वम् । नः॒ । ऊ॒र्ज॒ऽस॒ने॒ । ऊर्ज॑म् । धाः॒ । राजा॑ऽइव । जेः॒ । अ॒वृ॒के । क्षे॒षि॒ । अ॒न्तरिति॑ ॥

सायणभाष्यम्

हेसूनो सहसस्पुत्र यद्वा षूप्रेरणे सर्वस्यप्रेरकाग्ने वद्मा वदनीयः स्तुत्योसिहि परःपादः परोक्षकृतः अद्म सद्वा अद्मस्वदनीयेषु हविष्षु- सीदन् हविःस्वीकरणायोपविशन्नग्निः जनुषा जन्मना स्वभावतएव अज्म गृहनामैतत् गृहमन्नंच यजमानानां चक्रे करोति हेऊर्जसने ऊर्ज- स्यान्नस्यदातरग्ने नोस्मभ्यं सतादृशस्त्वं ऊर्जमन्नं धाः धेहि तथा राजेवजेः अस्मच्छत्रून् जयएतत्सर्वार्थमवृकेराक्षसादिभिर्बाधकैर्वियक्ते- स्मदीयाग्न्यगारेन्तर्मध्ये क्षेषि निवससि ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः