मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४, ऋक् ६

संहिता

आ सूर्यो॒ न भा॑नु॒मद्भि॑र॒र्कैरग्ने॑ त॒तन्थ॒ रोद॑सी॒ वि भा॒सा ।
चि॒त्रो न॑य॒त्परि॒ तमां॑स्य॒क्तः शो॒चिषा॒ पत्म॑न्नौशि॒जो न दीय॑न् ॥

पदपाठः

आ । सूर्यः॑ । न । भा॒नु॒मत्ऽभिः॑ । अ॒र्कैः । अग्ने॑ । त॒तन्थ॑ । रोद॑सी॒ इति॑ । वि । भा॒सा ।
चि॒त्रः । न॒य॒त् । परि॑ । तमां॑सि । अ॒क्तः । शो॒चिषा॑ । पत्म॑न् । औ॒शि॒जः । न । दीय॑न् ॥

सायणभाष्यम्

हेअग्ने रोदसी द्यावापृथिव्यौ भासा दीप्त्या व्याततन्थ विशेषेणाच्छादयसि तत्रदृष्टान्तः भानुमद्भिः प्रभावद्भिरर्कैरर्चनीयैः किरणैः सूर्योन यथासूर्यः आतनोति तद्वत् परोर्द्धर्चः परोक्षकृतः पत्मन् पतत्यस्मिन्निति पत्ममार्गः तस्मिन्नौशिजोन उशिजस्तोतारःस्तुत्यतयात- त्संबन्धीऔशिजःसूर्यः सइव दीयन् गच्छन् शोचिषा तेजसा अक्तः संश्लिष्टःअतएव चित्रश्चायनीयोग्निः तमांसि नैशान्यन्धकाराणि परिण- यत् परिनयति परितोगमयति सर्वस्मादपिदिग्भागान्निवर्तयतीत्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः