मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५, ऋक् २

संहिता

त्वे वसू॑नि पुर्वणीक होतर्दो॒षा वस्तो॒रेरि॑रे य॒ज्ञिया॑सः ।
क्षामे॑व॒ विश्वा॒ भुव॑नानि॒ यस्मि॒न्त्सं सौभ॑गानि दधि॒रे पा॑व॒के ॥

पदपाठः

त्वे इति॑ । वसू॑नि । पु॒रु॒ऽअ॒नी॒क॒ । हो॒तः॒ । दो॒षा । वस्तोः॑ । आ । ई॒रि॒रे॒ । य॒ज्ञिया॑सः ।
क्षाम॑ऽइव । विश्वा॑ । भुव॑नानि । यस्मि॑न् । सम् । सौभ॑गानि । द॒धि॒रे । पा॒व॒के ॥

सायणभाष्यम्

हे पूर्वणीक बहुज्वालहोतर्देवानामाह्वातरग्ने त्वे त्वयि दोषा रात्रौ वस्तोरहनिच यज्ञियासोयज्ञार्हायजमानाः वसूनि हविर्लक्षणानि- धनानि एरिरे आभिमुख्येनप्रेरयन्ति प्रापयन्ति जुह्वतीत्यर्थः विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि क्षामेव क्षमायां भूम्यामिव यस्मिन्पाव्केशोधकेग्नौ सौभगानि धनानि सन्दधिरे देवाःसम्यङ्गिहितवन्तः अग्नौ वामं वसु संन्यदधतेतिब्राह्मणं तस्मिंस्त्वयीतिपूर्वत्र- योज्यम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः